मंगलाचरण-2

॥श्री गणेशाय नमः॥

 

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।

लम्बोदरश्च विकटो विघ्ननाशो विनायकः

धम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।

द्वादशैतानि नामानि यः पठेच्छृणुयादपि॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।

संग्रामे संगटे चैव विघ्नस्तस्य न जायते॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरै॥

सर्वविघ्नहरस्तस्मै गणाधिपतय नमः॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्बके गौरी नारायणि नमोस्तु ते॥

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्।

येषांहृदिस्थो भगवान् मङ्गलायतनं हरिः॥

 

तदेव लग्नं सुदिनं तदेव, ताराबलं चन्द्रबलं तदेव।

विद्याबलं देवबलं तदेव, लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि

 

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः।

येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मम॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपास्ते।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥

समृतेः सकलकल्याणं भाजनं यत्र जायते।

पुरूषं तमजं नित्यं ब्रजामि शरमं हरित्॥

सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः।

देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनः॥

विश्वेशं माधवंढुण्ढिं दण्डपाणिं च भैरवम्।

वन्द काशीं गुहां गंगां भवनीं मणिकर्णिकाम्॥

वक्रतुण्ड महाकाय कोटि सूर्य सम प्रभ।

निर्विध्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

 

विनायकम् गुरुं भानु ब्रह्म-विष्णु-महेश्वरा।

सरस्वतीं प्रणम्यादौ सर्वकार्यार्थ सिद्धये

वसुदेवम् सुतं देव कंस चाणूरमर्दनम्।

दवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्

 

शुक्लां ब्रह्मविचारसारपरमा माद्यां जगद्व्यापिनीं।

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां।

वन्दे तां परमेश्वरीं भगवतीं बुद्धि प्रदां शारदाम्

या कुन्देन्दुतुषारहारधवला या शुभ्र वस्त्रावृता।

या वीणावरदण्डमण्डिकरा या श्वेतपद्मासना

या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता।

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥

 

ब्रह्मा मुरारि स्त्रिपुरन्त कारी भानुः शशी भुमिसुतो बुधश्च।

गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहाः शान्तिकरा भवन्तु

 

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।

सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्॥

 

पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

 

शान्तिः शान्तिः शान्तिः ॥

Leave a Reply

Please log in using one of these methods to post your comment:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Connecting to %s


Follow

Get every new post delivered to your Inbox.